Monday, April 30, 2012

जामदग्न्य कृतं कालीस्तोत्रम्:



जामदग्न्य कृतं कालीस्तोत्रम्:

नमः शंकरकान्तायै सारायै ते नमो नमः ।
नमो दुर्गतिनाशिन्यै मायायै ते नमो नमः ॥


नमो नमो जगद्धार्यै जगत्कार्यै नमो नमः ।
नमोऽस्तु ते जगन्मात्रे कारणायै नमो नमः ॥

प्रसीद जगतां मातः सृष्टिसंहारकारिणि ।
त्वत्पादे शरणं यामि प्रतिज्ञां सार्थिकां कुरु ॥

 
त्वयि मे विमुखायां च को मां रक्षितुमीश्वरः ।
त्वं प्रसन्नाभव शुभे मां भक्तं भक्तवत्सले ॥

युष्माभिः शिवलोके च मह्यं दत्तो वरः पुराः ।
तं वरं सफलं कर्तु त्वमहसि वरानने ॥

जामदग्न्यस्तवं श्रुत्वा प्रसन्नाभवदाम्बिका ।
मा भैरित्येवमुक्त्वा तु तत्रैवान्तरधीयतः ॥

 
एतद् भृगुकृतं स्तोत्रं भक्तियुक्तश्च यः पठेत ।
महाभयात् समुत्तीर्णः स भवेदलीलया ॥

 
स पूजितश्च त्रैलोक्ये त्रैलोक्यविजयी भवेत् ।
ज्ञानिश्रेष्ठो भवेच्चैव वैरिपक्षविमर्दकः ॥


।। इति ब्रह्मवैवर्तपुराणे गणपतिखण्डे जामदग्न्य कृतं श्रीकालीस्तोत्रम् सम्पूर्णः ।।

No comments:

Post a Comment